चक्रवाकीचक्रवाकन्यायः

चक्रवाकः चक्रवाकी च दम्पती । एतौ दिने संगतौ भवतः आनन्देन विहरतः । परन्तु निशायां तौ पक्षिणौ वियुक्तौ भूत्वा परस्परमेलनार्थम् आक्रोशतः । प्रातः काले पुनः द्वावपि समागच्छतः । एवं प्रणयव्याकुलयोः प्रणयिनोः विरहदुःखं वर्णयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।

यथा –चक्रवाकवधुके आमन्त्रस्व सहचरम् उपस्थिता रजनी ।

(अभिज्ञानशाकुन्तले ३) (सा. ५५६)