<poem> सर्वत्र अन्धकारे विद्यमाने सति घटस्य दर्शनं भवति चेत् तत् दर्शनम् नेत्रयोः तथा घटस्य उपरि आधारितं भवति । दिने दर्शनं क्रियते चेत् तथा अवलम्बनं न भवति । नेत्रयोः सामर्थ्येन घटः दृश्यते । परन्तु रात्रौ नेत्राभ्यां सह दीपप्रकाशः आवश्यकः ।

एवं ब्रह्मसाक्षात्कारे ब्रह्मविषयकम् अज्ञानं नाशयितुं वृत्तिव्याप्तेः (अहं ब्रह्मास्मीतिरुपायाः ) अपेक्षा भवति । चिदाभासस्य अपेक्षा न भवति ।

(पञ्चदशी ७-९२)

चक्षुर्दीपावपेक्ष्येते घटादेर्दर्शने यथा ।

न दीपदर्शने किन्तु चक्षुरेकमपेक्ष्यते ॥ पञ्चदशी ७-९३

"https://sa.wikiquote.org/w/index.php?title=चक्षुर्दीपन्यायः&oldid=12474" इत्यस्माद् प्रतिप्राप्तम्