चटक चटक रे चटक...


चटक! चटक! रे चटक!
चिँव् चिँव् कूजसि त्वं विहग!

नीडे निवससि सुखेन डयसे
खादसि फलानि मधुराणि
विहरसि विमले विपुले गगने
नास्ति जनः खलु वारयिता ॥

मातापितराविह मम न स्तः
एकाकी खलु खिन्नोऽहम्
एहि समीपं चिँव् चिँव् मित्र!
ददामि तुभ्यं बहुधान्यम् ॥

चणकं स्वीकुरु पिब रे नीरम्
त्वं पुनरपि रट चिँव् चिँव् चिँव्
तोषय मां करु मधुरालापं
पाठय मामपि तव भाषाम् ॥


- डा. विश्वासः


"https://sa.wikiquote.org/w/index.php?title=चटक_चटक_रे_चटक...&oldid=17450" इत्यस्माद् प्रतिप्राप्तम्