शरीरस्य एकस्मिन् भागे चन्दनं स्थापितं चेदपि संपूर्णे शरीरे आहलादो भवति । तथा आत्मा हृदयाख्ये शरीरस्य एक भागे भवति चेदपि तस्य प्रभावः सर्वशरीरोपरि भवतीति न्यायस्य आशयः ।

यथा – शरीरैकदेशसंबद्धोऽपि सन् सकलदेहव्याप्ततमाह्लादं करोति ।

इत्येवमात्माऽपि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यति ॥

(ब्रह्मसूत्रशाङ्करभाष्ये २-३-२३,२४)

"https://sa.wikiquote.org/w/index.php?title=चन्दनन्यायः&oldid=9873" इत्यस्माद् प्रतिप्राप्तम्