चातकपक्षी मेघात् निर्गतं जलबिन्दुमेव पिबति । अन्यत्र जलाशये वर्तमानं जलं नं पिबति इति कविसंप्रदायः । तदर्थं सः पक्षी वर्षागमस्य कृते एव प्रतीक्षते । तथैव चकोरपक्षी चन्द्रकिरणानेव खादति किमपि अन्यत् न । एवं कस्यापि एकस्य कृते एव प्रतीक्षा भवति चेत् तद्विषये अयं न्यायः प्रवर्तते ।

"https://sa.wikiquote.org/w/index.php?title=चन्द्रचकोरन्यायः&oldid=9875" इत्यस्माद् प्रतिप्राप्तम्