चन्द्र –चन्द्रिकान्यायः

चन्द्रस्य चन्द्रिकायाश्च अविनाभावसंबन्धो विद्यते । तथा परस्परम् अविभक्तयोः द्वयोः विषये अस्य न्यायस्य प्रयोगो भवति । यथा- अतः सर्वदेवकारणस्य रुद्रस्यया शक्तिः चन्द्रचन्द्रिकान्यायेन तदुद्बोधरुपिणी स्वाधीनवल्लभेति प्रसिद्धा सैव भवानी । (आनन्दगिरिः)