चमू: प्रवृत्ता संस्कृतबन्धूनाम्...

चमू: प्रवृत्ता संस्कृतबन्धूनाम्...


चमू: प्रवृत्ता संस्कृतबन्धूनाम्
संस्कृतयष्टिधरा संस्कृतिधुरन्धरा ॥

न ताडयति कायं
न भेदयति हृदयम् ।
निर्मलमनसा संस्कृतवचसा
विकासयति चित्तम् ॥ 1 ॥

ग्रामे नगरे सञ्चरति
संस्कृतशिबिरं निर्माति ।
सम्भाषण-जागर्ति-हेतुना
पुरो नयति राष्ट्रम् ॥ 2 ॥

बाला वृद्धा गृहिणी गृहिणो
विहाय जातिवयोभेदम् ।
प्रसार्य लक्षायुतबाहून्
रक्षति संस्कृतजननीम् ॥ 3 ॥


- गु. गणपय्यहोळ्ळ: