रामायणसूक्तयः (चरित्रम्)

(चरित्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

१. कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।

चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ॥ (अयोध्याकाण्डः १०९/४)

२. निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।

मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ (अयोध्याकाण्डः १०९/३)