चाटुचणकः(गृहस्थाश्रमः)

<poem>

गृहस्थाश्रमः

गृहिणी स्वजनं वक्ति शुष्काहारमिताशनम् । पतिपक्षांस्तु बह्वाशीन् क्षीरपांस्तस्करानपि ॥

गृहं प्रति अतिथित्वेन पतिबान्धवाः आगच्छन्ति, पत्नीबान्धवाः अपि आगच्छन्ति । यदा पतिबान्धवाः आगच्छन्ति तदा पत्नी वदति - 'भवतः बान्धवाः बहु खादन्ति, गृहे स्थितं क्षीरं ते एव पिबन्ति बहुधा । तावदेव न, गृहे स्थितानि वस्तूनि चोरयित्वा नयन्ति अपि' इति । यदा स्वस्य बान्धवाः आगच्छन्ति तदा सा वदति - 'अहो, मम बान्धवाः शुष्कम् एव आहारं सेवन्ते । मितम् एव सेवन्ते !!' इति । एषः एव लोकव्यवहारः नाम ।


आः पाकं करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा । निर्गच्छ त्वरितं गृहाद्बहिरितो नेदं त्वदीयं गृहम् चेदेवं बहिरेमि गर्दभगृहान्नात्रवतिष्ठे क्षणम् ॥

यत्र विषमदाम्पत्यं भवति तत्र कलहः प्रवर्तते प्रतिदिनम् अपि । तादृशस्य विषमदाम्पत्यस्य चित्रणम् अस्ति अत्र । पत्न्या पाकः न कृतः इत्यतः कुपितः पतिः पृच्छति - 'अये दुष्टे, पापिनि, किमर्थं पाकः न कृतः त्वया ?’ इति । तदा कुपिता पत्नी प्रत्युत्तरं वदति - ‘नाहं पापिनी । तव पिता एव पापी’ इति । एतत् श्रुतवतः पत्युः कोपः प्रवृद्धः । सः अवदत् - ‘रण्डे, किमर्थं वृथा जल्पसि ?’ इति । तदा पत्नी आह - ‘तव जननी रण्डा, तव भगिनी च रण्डा, न अहम्’ इति । एतस्मात् क्रुद्धः पतिः गर्जति - ‘एतादृशानि दुर्वचनानि वदन्ती त्वम् अत्र स्थातुं नार्हसि । त्वरितं निर्गच्छ इतः’ इति । ‘एवं चेत् एषाऽहं निर्गच्छामि । गर्दभस्य तव गृहे क्षणमात्रम् अपि न तिष्ठामि’ इति वदति पत्नी । अहो विषमदाम्प्यत्ययुक्तस्य गृहस्य दुर्गतिः ।


भाण्डानि शतसहस्रं भग्नानि मम मस्तके । अहो गुणवती भार्या भाण्डमूल्यं न याचते ॥

कश्चन शान्तस्वभावः आसीत् । तस्य पत्नी तु चण्डी । यदा यदा कोपः प्राप्यते तदा तदा सा मृद्घटेन पतिं शिरसि प्रहरति । एवं शताधिकाः सहस्राधिकाः च घटाः भग्नाः । एतादृशीम् अपि पत्नीं सः वर्णयति - ‘अहो, सा गुणवती !’ इति । ‘बहुवारं घटाः भग्नाः चेदपि तया एकवारम् अपि भाण्डमूल्यं न याचितम् । अतः सा गुणवती एव’ इति अभिप्रैति सः । पीडाकरीं पत्नीम् अपि गुणवतीं कथयतः तस्य कथनं वयं किमर्थं निराकुर्याम ?


बिलाद् बहिर्बिलस्यान्तः स्थितमार्जारसर्पयोः । मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः ॥

अनपत्यताकारणतः, अर्थलाभादिहेतुना, अन्यकारणेन वा केचन पत्नीद्वययुताः भवन्ति । तादृशानां जीवनं नितरां शोचनीयं भवति प्रायः । मार्जारेण अनुधाव्यमानः कश्चन मूषकः कदाचित् एकं बिलं प्राविशत् । तस्य पुरतः उपस्थितः आसीत् घोरः सर्पः ! अग्रे गतं चेत् सर्पात् अपायः, पृष्ठतः गतं चेत्, तत्रैव स्थितं चेत् वा मार्जारात् विपत्तिः । एतादृश्यां स्थितौ सः वराकः अनन्यगतिकः किं वा कुर्यात् ? तस्य यथा, तथैव भवति पत्नीद्वययुतस्य मनुष्यस्यापि स्थितिः । एवं ननु ?