जामातुर्वक्रता तावद्यावद्बालस्य बालता ।
प्रबुध्यमाने सारल्यं प्रबुद्धेऽस्मिन् पलायनम् ॥

 पत्न्या: भ्राता (श्याल:) यावत् बाल: भवति तावत् जामाता श्वशुरगृहे अधिकाधिकवक्रतां दर्शयति । किन्तु यथा यथा श्यालस्य प्रबुद्धता वर्धते तथा तथा जामातु: व्यवहारे सरलता दृश्यते । किन्तु यदा श्याल: प्रबुद्ध: भवति तदा तु जामाता स्वस्य वक्रतां सर्वथा न्यूनीकरोति । तावदेव न, प्रबुद्धे च श्याले, श्वशुरगृहं प्रति गमनम् अपि न्यूनीकरोति स: । यत्र पूजा अल्पा तत्र अनादर: खलु भवति ?


भार्या ज्येष्ठा शिशुः श्यालः शश्रूः स्वातन्त्र्यवर्तिनी ।
श्वशुरः तु प्रवासी च जामातुर्भाग्यकारणात् ॥

 यस्य भार्या स्वमातापित्रोः ज्येष्ठपुत्री भवति, श्यालः च अल्पवयस्कः भवति, श्वश्रूः च स्वातन्त्र्येणा व्यवहरन्ती भवति, श्वशुरः सदा प्रवासनिरतः भवति तादृशस्य जामातुः परमसौभाग्यम् । यतः श्वशुरगृहस्य सम्पत्तेः उपयोगे न कोऽपि विघ्नः तस्य । एतादृशं जामातृत्वं सौभाग्यात् एव लभ्यते ।


सदा रुष्टः सदा तुष्टः सदा पूजामपेक्षते ।
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥

 लोके ‘नव ग्रहाः सन्ति ’ इति सर्वे जानन्ति एव । किन्तु कविः वदति दशमः अपि कश्चन ग्रहः अस्ति इति । जामाता एव दशमः इति कवेः आशयः । कथं तस्य ग्रहत्वम् इति पृष्टे कविः वदति – ‘जामाता कन्याराशौ तिष्ठति । क्वचित् तुष्टः भवति, पुनः क्वचित् रुष्टः भवति । सदा पूजां (सम्माननं) च अपेक्षते । ग्रहाणां स्वरुपम् अपि एवम् एव । अतः जामाता दशमः ग्रहः इत्यत्र नास्ति सन्देहः’ इति । अन्यग्रहाणां परिणामः समग्रे लोके भवति । किन्तु जामातृग्रहस्य परिणामस्तु श्वशुरगृहमात्रे भवति ।


श्वशुरगृहनिवासः स्वर्गतुल्यो नराणां
यदि भवति दिनानि त्रीणि पञ्चाथ सप्त ।
दधि –मधु- घृत- भक्ष्य-क्षीरसारप्रवाहः
तदुपरि निवसेत् चेत् पादरक्षाप्रयोगः ॥

 ‘सारं श्वशुरमन्दिरम्’ इति मत्वा श्वशुरगृहे दीर्घवासः न करणीयः इति बोधयति कश्चन कविः । यदि श्वशुरगृहे द्वित्राणि पञ्चषाणि वा दिनानि वासः क्रियते तर्हि स्वर्गसुखम् एव अनुभूयते । भक्ष्यभोज्यक्षीरादिदानैः जामाता बहुधा सत्क्रियते । यदि सः दीर्घकालं तत्र वसेत् तर्हि कःपदार्थः इव परिगण्येत । पादरक्षाप्रयोगः तत्सदृशः अन्यः अवमानकरः व्यवहारः वा तत्र भवेत् कदाचित् । अतः श्वशुरगृहवासविषये औचित्यप्रज्ञा सदा भवतु, परगृहवासविषये अपि यदि एषा औचित्यप्रज्ञा स्यात् तर्हि अपि वरम् एव ।


असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
हरो हिमालये शेते हरिश्शेते महोदधौ ॥

 ईश्वरः हिमालये, विष्णुः समुद्रे च किमर्थं शयनं कुरुतः ? कविः कश्चन कथयति – ’श्वशुरगृहवासः एव निस्सारे एतस्मिन् संसारे सारभूतम् इति तौ चिन्तयतः इत्यतः तथा कुरुतः‘ इति । श्वशुरगृहे जामातुः विशेषादरः भवत्येव । अतः एतत् अपि उत्तरं युक्तं स्यात् कदाचित् ।

सञ्चिका:Jaamaataa.jpg
जामाता
"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(जामाता)&oldid=15909" इत्यस्माद् प्रतिप्राप्तम्