<poem>

जिह्वा

निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् । चकार हि वृथा शश्त्रविषवह्नीन् प्रजापतिः ॥

लोके अग्निशस्त्रविषादयः प्राणहरत्वेन ख्याताः । प्रजापतिः प्राणहरणाय आदौ तानि विषादीनि एव असृजत् । किन्तु अनन्तरकाले पिशुनजनानां जिह्वा तेन सृष्टा तत्कार्याय एव । खलजिह्वायाः सृष्टेः अनन्तरं प्राणहरणकार्यं समग्रं तया एव क्रियमाणम् अभवत् इत्यतः विषादीनां सृष्टिः व्यर्था जाता । अपारसामर्थ्यवति वस्तुनि स्थिते अल्पसामर्थ्यवन्ति वस्तूनि अप्रयोजनकारीणि खलु भवन्ति ?


दन्ता: वदन्ति जिह्वे त्वां दशाम: किं करिष्यसि । एकमेव वचो वच्मि नूनं सर्वे पतिष्यथ ॥

कदाचित् दन्ता: जिह्वाम् अवदन् - 'हे जिह्वे, वयं बहव: स्म: । भवती एकाकिनी अस्ति । वयं सर्वे सम्भूय भवतीं दशाम: चेत् एकाकिनी असहाया भवती किं वा कुर्यात् ?' इति । तदा जिह्वा शान्तेन स्वरेण अवदत् - 'भवन्त: बहुसंख्याका: स्यु: नाम । एकाकिनी अपि सती अहम् असहाया तु न । यदि भवन्त: मां दशेयु: तर्हि अहं तादृशम् एकं वाक्यं वदिष्यामि येन श्रोता क्रुद्ध: सन् हस्तप्रहारेण भवत: सर्वान् पातयेत्' इति । सत्यं खलु - लोके बलवत्त्वम् असहायकता च तत्तस्य बुद्धिमत्ताम् अवलम्बते ?


"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(जिह्वा)&oldid=14578" इत्यस्माद् प्रतिप्राप्तम्