चाटुचणकः(पण्डितः)
विद्वानसाधुशब्दः विस्मृतलिङ्गो नपुंसकप्रकृतिः ।
अविदितसकलसमासः सदस्सु सदा द्वन्द्वमेव जानाति ॥
केचन आत्मानं पण्डितं मन्यन्ते । किन्तु यदा ते विषयस्य उपस्थापनाय उद्युक्ताः भवन्ति तदा न स्मर्यन्ते साधुशब्दाः, विस्मर्यन्ते लिङ्गानि, सर्वे शब्दाः नपुंसकलिङ्गाः इति भ्रान्तिः भवति । (अतः देवालयम्, प्रकोष्ठम् इत्यादीन् प्रयोगान् कुर्वन्ति ते प्रथमाविभक्तौ ।) समासव्यवस्था नितराम् अस्तव्यस्ता भवति । एतादृशे प्रसङ्गे मानसिकद्वन्द्वम् अनुभवन्तः ते यत्किञ्चित् प्रलपन्ति इत्यत्र न किमपि आश्चर्यम् !
नासाथूत्कृतिमिश्रैः मिथ्याकासैः सकण्ठटङ्कारैः ।
पृष्टो विघ्नं कुरुते विस्मृतलट्प्रत्ययोः विद्वान् ॥
विद्वत्सभायां कदाचित् अन्येन पृष्टस्य प्रश्नस्य उत्तरं विस्मृत्यादिवशात् अजानन् विषयोपस्थापकः कष्टम् अनुभवति । विषयस्मरणार्थं बहुधा प्रयत्नं करोति सः । तथापि किमपि न स्मर्यते । तदा स्वस्य असहायकतां गोपयितुं सः नासां पौनः पुन्येन स्पृशन् थूत्कारशब्दं करोति, मिथ्याकासम् उत्पादयति । ध्वनिसमीकरणव्याजेन कण्ठशब्दं करोति । एवं बहुभिः शरीरव्यापारैः सः स्वस्य विस्मृतेः (अज्ञानस्य वा) प्रकाशनं निवारयितुं प्रयतते ।
एषा एव स्थितिः मौखिकपरीक्षासु, कक्ष्यादिषु चापि दृष्टिगोचरतां याति ननु बहुधा ?