घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥

तार्किकाः सदापि 'घटः' 'पटः' 'रासभः' - इत्यादीन् शब्दान् एव उच्चारयन्तः भवन्ति उदाहरणावसरे । अतः कश्चित् तान् उपहसन् वदति - 'घटः भेत्तव्यः, पटः छेत्तव्यः, रासभः आरोढव्यः वा । केनचित् उपायेन प्रसिद्धिप्राप्तिः चिन्तनीया' इति । अद्य जनाः एतदेव कुर्वन्तः दृश्यन्ते । प्रसिद्धिप्राप्त्यर्थं विलक्षणान् अर्थहीनान् उपायान् आश्रयन्तोऽपि ते न लज्जन्ते ।


त्रिविक्रमोऽभूदपि वामनोऽसौ स सूकरश्चाटपि स वै नृसिंहः ।
नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् ॥

'येन केन प्रकारेण प्रसिद्धपुरुषो भव' इति तु अद्यतनः मन्त्रः । प्रसिद्धिप्राप्तिकाले धनसम्पादनकाले च न्याय्यान्यायस्य चिन्ता उचितानुचितविवेचनं वा न क्रियते अद्य । एतत् अनुचितं न इति वदति कश्चन चाटुश्लोचककारः । सः भगवन्तं महाविष्णुं दर्शयन् वदति - 'विष्णुः इष्टसाधनार्थं क्वचित् त्रिविक्रमः जातः, पुनरन्यदा वामनः । वराहावतारः तेन आश्रितः, मत्स्यकूर्माद्यवताराः अपि अवलम्बिताः । नृसिंहः अपि जातः सः । एवं केनचित् प्रकारेण तेन इष्टं साधितम् । इष्टसाधनकाले उपायस्य नीचानीचता मनसि न स्थापनीया' इति ।

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(प्रसिद्धिः)&oldid=17745" इत्यस्माद् प्रतिप्राप्तम्