चाटुचणकः(अन्ये)

(चाटुचणकः/अन्ये इत्यस्मात् पुनर्निर्दिष्टम्)

शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् ।
जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ॥

 लोभयुक्तं जनं पृच्छन्तु भवन्तः - 'धार्मिककार्येषु किं भवतः प्रियम् ?' इति । सः वदेत् - 'उपवासः एव मम प्रियः' इति । यतः तदर्थं वराटिकाव्ययः अपि कारणीयः नास्ति । 'चिकित्साक्रमे कः योग्यः ?' इति पृष्टः लोभी वदेत् - 'लङ्घनं (निराहारस्थितिः) परमौषधम्' इति । यतः अत्रापि व्ययप्रसक्तिः सर्वथा नास्ति । 'यज्ञेषु कः यज्ञः प्रियः ?' इति पृष्टः सः वदेत् - 'व्ययं विनैव कर्तुं शक्यः नामजपयज्ञः एव मम प्रियः' इति । एवं यत् व्ययं विना सिद्ध्येत् तदेव रोचते लोभिने ।


अन्धं दरिद्रमथ च प्रियया विहीनं वीक्ष्येश्वरो वदति याच वरं त्वमेकम् ।
नेत्रे न नापि वसु नो वनितां स वव्रे छत्राभिरामसुतदर्शनमित्युवाच ॥

 कश्चन अन्धः आसीत् । सः नितरां दरिद्रः अपि । तस्य पत्नी दिवङ्गता आसीत् । तादृशः कदाचित् तपः कृत्वा ईश्वरं तोषितवान् । सन्तुष्टः ईश्वरः प्रत्यक्षीभूय ‘एकम् एव वरं ददामि भवते । भवान् यत् इच्छति तत् याचतु’ इति अवदत् । तदा सः अन्धः न नेत्रे प्रार्थितवान् । न ऐश्वर्यं प्रार्थितवान् । न पत्नीप्राप्ति प्रार्थितवान्, अपि तु उक्तवान् - 'सुवर्णच्छत्रविभूषितं पुत्रं द्रष्टुम् इच्छामि' इति । यदि एषा अपेक्षा पूरणीया तर्हि ईश्वरेण तस्मै दृष्टिशक्तिः, पत्नी, ऐश्वर्यं च दातव्यानि एव खलु ?


भिक्षो मांसनिषेवणं च कुरुषे किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽस्ति भवतः भ्रष्टस्य का वा गतिः ॥

 कश्चन भिक्षुः (संन्यासी) मांसं खादन् आसीत् । तं दृष्ट्वा कश्चित् अपृच्छत् - 'आर्य ! किं भवता मांसं सेव्यते ?' भिक्षुः अवदत् - 'आम् । किन्तु मांसेन सह मद्यम् अपि नास्ति किल इति मम खेदः' इति । प्रष्टा आश्चर्येण अपृच्छत् - 'किं मद्यसेवनाभ्यासः अपि अस्ति भवतः ?' इति । 'आम् । यदि तत् वाराङ्गना काचित् दद्यात् तर्हि महान् सन्तोषः' इति अवदत् भिक्षुः । 'वाराङ्गनार्थं धनम् आवश्यकं खलु ? तत् कथं प्राप्यते ?' - प्रष्टा अपृच्छत् । 'तत् तु द्यूतेन चौर्येण वा प्राप्यते' - इति शान्ततया अवदत् भिक्षुः । 'भिक्षुणा सता भवता मांसं मद्यं च सेव्यते । वाराङ्गना उपगम्यते । द्यूतं चौर्यं चापि क्रियते ! किम् एतत् सर्वम् !' इति आश्चर्येण पृष्टवान् प्रष्टा । तदा भिक्षुः खेदेन अवदत् - 'यदि भ्रष्टता प्राप्यते तर्हि एवमेव अधोगतिः भवति क्रमशः । सकृत् भ्रष्टस्य अधःपतनं सहजम्' इति ।


वत्से मा गा विषादं श्वसनमुरजवं सन्त्यजोर्ध्वप्रवृत्तम् ।
कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा
यस्मै लक्ष्मीमदाद् वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥

 लक्ष्म्याः स्वयंवरः प्रचलत् आसीत् । लक्ष्म्याः पिता सागरः तु स्वपुत्रीं विष्णवे दातुम् इच्छति । तां परिणेतुम् इच्छवः इन्द्रादयः अपि उपस्थिताः आसन् सभायाम् । ते स्वपुत्र्याः यथा न अङ्गीकृताः स्युः तथा करणीया आसीत् तेन । अतः सः पुत्र्याः भीतिं निवारयन् इव वदति - 'वत्से ! विषादः मास्तु । दीर्घश्वासः अपि मास्तु भवत्याः । गुरुः कम्पोऽपि मास्तु बलमित् जृम्भिमत् अपि मास्तु' इति । तस्य तात्पर्यम् एवं भवति - 'विषादः - विषसेवी शिवः मास्तु, श्वसनं- वायुः मास्तु, कस्य-जलस्य पाता रक्षकः वरुणः मास्तु, गुरुः - बृहस्पतिः अपि मास्तु, बलमित् - बलनामकस्य राक्षसस्य संहर्ता इन्द्रः मास्तु, अत्र विष्णुसमीपम् आगच्छतु' इति । एवम् उपायेन पुत्र्याः विवाहं निर्णीतवान् सागरः भवतां पापं निवरयतु ।


ऊर्णां नैव दधाति नैष विषयो वाहस्य दोहस्य वा
तृप्तिर्नास्ति महोदरस्य बहुभिर्घासैः पलालैरपि ।
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते
को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥

 कदाचित् ग्रामीणाः गजम् ऐदम्प्राथम्येन दृष्टवन्तः । ते अचिन्तयन् - 'अहो, महाकारता एतस्य ! एषः मेषः इव ऊर्णं न ददाति, क्षीरम् अपि न ददाति । एतम् आरुह्य सञ्चारोऽपि कर्तुं न शक्यः । उन्नतपृष्ठत्वात् एतस्य उपरि भारस्य आरोपणम् अपि न शक्यम् । अस्मै प्रभूतं तृणादिकं दातव्यं भवति । एतस्य निग्रहः अपि क्लेशकरः । अधिकधनस्य दानेन विलक्षणम् एतं को वा क्रीणीयात् ? वयं तु काश्चन वराटिकाः दातुं शक्नुयाम, तावदेव' इति । स्वयोग्यतानुगुणं चिन्तितं तैः । अल्पाः जनाः महत्तमस्य योग्यतां गुणवत्ताम् उपयोगितां वा अवगन्तुं न अर्हन्ति खलु ?


जामातारो भागिनेयाः मातुलाः दारबान्धवाः ।
अज्ञाता एव गृहिणां भक्षयन्त्याखुवद् गृहे ॥

 यदि कश्चन गृहस्थः धनिकः अस्ति तर्हि ततः लाभं प्राप्तुं निरन्तरं प्रयतन्ते जामातारः, भगिनीपुत्राः, मातुः भ्रातरः, पत्न्याः बान्धवाः च । एतादृशाः बान्धवाः बलात् निवारयितुं न शक्याः । गृहस्वामी यथा न जानीयात् तथा एते गृहस्य एैश्वर्यस्य लुण्ठनं कुर्वन्ति । मूषकः अपि एवमेव करोति । अतः एते बान्धवाः मूषकाः इव ।


ज्ञातेयं ज्ञानशून्यत्वं पिशुनत्वं दरिद्रता ।
मिलन्ति यदि चत्वारि तद्दिशेऽपि नमो नमः ॥

 दायादवैरं, ज्ञानशून्यता, कर्णेजापत्वं दारिद्र्यं चेति चत्वारि अपि हानिकारकाणि । यदि एतानि एकत्रैव सम्मिलन्ति तर्हि किं वा वक्तव्यम् ? एतानि यस्मिन् भवन्ति, सः यत्र निवसति सा दिक् अपि न द्रष्टव्या । दूरात् एव सा दिक् नमस्करणीया ।


अनृतं चाटुवादश्च धनयोगो महानयम् ।
सत्यं वैदुष्यमित्येष योगो दारिद्य्रकारकः ॥

 असत्यकथनं चाटुवादश्च धनलाभम् आनयति । सत्यप्रियता वैदुष्यञ्च दारिद्र्यम् आनयति ।


विस्मृतं वाग्भटेनेदं तुलस्याः पठता गुणान् ।
विश्वसम्मोहिनी वित्तदायिनीति गुणद्वयम् ॥

 आयुर्वेदाचार्यः वाग्भटः तुलस्याः विविधान् गुणान् उपवर्णयति । किन्तु तेन तस्याः विशिष्टं गुणद्वयं तु न उक्तम् । तत् गुणद्वयं - विश्वसम्मोहिनीत्वं, वित्तावर्जकत्वं चेति । एतत् गुणद्वयं कुत्र दृष्टम् इति ? तुलसीमालां हस्तेन गृहीत्वा तुलसीमणीन् गणयन्तः मठाधीशाः बहवः, धार्मिकपुरुषाः अनेके च विश्वं मोहयन्तः किं धनं न अर्जयन्ति प्रभूततया ? महाप्राज्ञोऽपि वाग्भटः तुलस्याः एतत् वैशिष्ट्यं ज्ञातुं न शक्तवान् आसीत् । अहो, माहात्म्यातिशयः तुलस्याः !


चन्दनकर्दमकलहे भेको माध्यस्थ्यमापन्नः ।
ब्रूते पङ्कनिमग्नः कर्दमसाम्यं न चन्दनं वहति ॥

 कदाचित् चन्दनकर्दमयोः कलहः प्रवृत्तः - ‘आवयोः कतरः श्रेयान्’ इति । तदा कश्चन मण्डूकः माध्यस्थ्यम् आवहत् । मण्डूकः कर्दमप्रियः, कर्दमवासी च इति सर्वे जानन्ति एव । सः अवदत् - ‘चन्दनं कर्दमसाम्यं वोढुं न अर्हति । अतः कर्दमः एव श्रेयान्’ इति । यः चन्दनमूल्यम् एव न जानाति तस्य निर्णयः एतस्मात् भिन्नं भवितुं न अर्हति खलु ? एषु दिनेषु एतादृशः व्यवहारः आधिक्येन दृश्यते लोके ।


आवयोर्मेलनं कान्त कदा कुत्र भविष्यति ।
यदि वेदाः प्रमाणं स्युः कुम्भीपाके भविष्यति ॥

 काचित् प्रेयसी स्वस्य प्रियं विटम् अपृच्छत् - 'आवयोः पुनः मेलनं कदा कुत्र वा भवितुम् अर्हति ?' इति । तदा विटः झटिति अवदत् - 'अहमस्मि जारः । भवती अपि जारवृत्तिका एव । आवयोः उभयोः अपि कृत्यं पापाय । एतादृशं पापं ये कुर्वन्ति ते कुम्भीपाकरूपं नरकं गच्छन्ति इति वदन्ति वेदाः । वेदैः यत् उक्तं तत् प्रमाणं यदि स्यात् तर्हि कुम्भीपाकनामके नरके आवयोः मेलनं तु निश्चयेन भविष्यति' इति ।


न स्वादु नौषधमिदं न च वा सुगन्धि नाक्षिप्रियं किमपि शुष्कतमाखुचूर्णम् ।
किं चाक्षिरोगजनकं च तदस्य भोगे बीजं नृणां नहि नहि व्यसनं विनान्यत् ॥

 तमाखुसेवनम् अद्य विविधैः प्रकारैः दृश्यते । तस्य सेवनं कुर्वतां सङ्ख्या दिने दिने वर्धते अपि । तस्मिन् गुणाः के सन्ति ? किं तत् औषधम् ? न । किं तत् सुगन्धि ? तदपि न । किं तु रमणीयम् ? सर्वथा न । किं तत् रसवत् ? तदपि न, शुष्कं नीरसं च तत् । तस्य सेवनात् कर्कादिरोगजनकत्वम् अपि । तथापि जनाः बहुधा सेवन्ते यत् तस्य बीजं किम् ? कविः वदति - ‘दुर्व्यसनप्रियतायाः ऋते नान्यत् किमपि’ इति । दुर्व्यसनवतां व्यसनस्य कारणं किमपि न भवति । गुणावगुणादिकं ते न पश्यन्ति अपि ।


सुधाधिक्यं स्पृहेच्छत्रुः फलाधिक्यं स्पृहेत् भिषक् ।
पत्राधिक्यं स्पृहेज्जाया माता तु त्रितयं स्पृहेत् ॥

 ताम्बूलं सर्वे जानन्ति एव । जीवने कदाचित् वा तत् सेवितवन्तः स्युः अपि सर्वे । आयुर्वेदः अपि वदति - ‘‘ताम्बूलस्य सखे त्रयोदश गुणाः’’ इति । ताम्बूलस्य त्रीणि अङ्गानि - सुधा, पूगफलं, नागवल्लीपत्रं चेति । ताम्बूलं यत् सेव्यते तत्र सुधाधिक्यं भवतु इति शत्रुः इच्छति । यतः सुधाधिक्ये जिह्वादाहः, ततश्च अस्वास्थ्यम् । शत्रोः एतदेव खलु प्रियम्? वैद्यः इच्छति पूगफलस्य आधिक्यं भवतु इति । पूगफलस्य आधिक्ये अस्वास्थ्यं वर्धते । तस्मात् वैद्यस्य आयोऽपि वर्धते । पत्राणि रागं (रक्तवर्णतां) वर्धयन्ति । अतः पत्नी तम् इच्छति । माता तु त्रितयस्यापि समत्वम् इच्छति । त्रितयस्य समत्वे एव आरोग्यकरत्वम् । पुत्रस्य हितम् एव खलु मातुः प्रियतमम् ?


तस्करः सधनात् किञ्चित् छद्मनापहरत्यधीः ।
अर्थशास्त्री समक्षं यो मुष्णाति वसु कोटिशः ॥

 लोके धनवन्तः भवन्ति बहवः । तेभ्यः धनापहर्तारः द्विविधाः - प्रत्यक्षचोराः अप्रत्यक्षचोराः चेति । प्रत्यक्षचोराः तावत् महता श्रमेण आपत्तिबहुलं मार्गम् अवलम्बमानाः धनम् अपहरन्ति, क्वचित् अपराधितारोपं प्राप्य कारागारवासम् अनुभवन्ति च । परोक्षचोराः तु एवं न । ते कोटिशः धनम् अपहरन्ति । तथापि कारागारवासं तु न प्राप्नुवन्ति । ते सन्ति - कराधिकारि-गणनापरीक्षकादयः । न्यायवादिवैद्यादयः एतेषां भ्रातरः इति यदि वदेम तर्हि न सा अत्युक्तिः ।


मन्त्रभ्रंशे सम्प्रदायः प्रयोगश्च्युतसंस्कृतौ ।
देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥

 मन्त्रकथनावसरे यदि दोषः भवेत् तर्हि झटिति वक्तव्यम् - ‘अस्माकं सम्प्रदायः ईदृशः’ इति । यदि व्याकरणदोषः सम्भवति तर्हि अविलम्बेन कथनीयम् - ‘आर्षप्रयोगः एतादृशः एव’ इति । आचारे यदि दोषः कृतः स्यात् तर्हि सपदि एव वदनीयम् -‘अस्मत्प्रदेशे एषः एव आचारः’ इति । एवं पुरोहितः प्रश्नसमनन्तरम् एव उत्तरदानाय सन्नद्धः एव स्यात् ।


गौरी तनुर्नयनमायतमुन्नता च नासा कटी पृथुतटी च पटी विचित्रा ।
अङ्गानि लोमरहितानि हिताय भर्तुः पुच्छं न तुच्छमिति कुत्र समस्तवस्तु ॥

 वनवासम् अङ्गीकृत्य सीता वनं गता खलु ? तदा वनवासिन्यः वानर्यः तां द्रष्टुम् आगतवत्यः । ताः परस्परं वदन्ति स्म - 'एतस्याः गौरं शरीरम् । नयने विशाले । नासिका, कटिः इत्यादयः अपि प्रशस्ताः । वस्त्रम् अपि विलक्षणं दृश्यते । अङ्गानि रोमरहितानि, येषां च स्पर्शनात् भर्ता सन्तोषम् अनुभवेत् । किन्तु एतस्याम् एका एव न्यूनता नाम - एतस्याः तुच्छम् अपि पुच्छं नास्ति इति' इति । वानरीणां दृष्ट्या पुच्छराहित्यम् असौन्दर्यस्य लक्षणम् । सुन्दरम् अपि असुन्दरं भावयन्तः एतादृशाः जनाः अद्यापि दृश्यन्ते एव खलु लोके ?


काकाल्लौल्यं यमात् क्रौर्यं स्थपतेर्धृढघातिताम् ।
आद्यक्षराणि सङ्गृह्य कायस्थः केन निर्मितः ॥

 यः आधुनिके काले ‘ॐण्ठज्ञढ्ढ’ इत्यादिभिः पदैः निर्दिश्यते, यश्च सर्वकारीयेषु कार्यालयेषु तिष्ठन् सामान्यान् जनान् बहुधा पीडयति सः प्राचीने काले 'कायस्थः' इति निर्दिश्यते स्म । कायस्थवृत्तिमन्तः प्रतिग्रामं, प्रतिनगरं, प्रतिकार्यालयं च भवन्ति एव । तेषां दुर्व्यवहाराः सोढुं न शक्याः, किन्तु अनन्यगतिकतया सोढव्याः एव भवन्ति । तादृशात् कायस्थात् पीडां प्राप्य नितरां खिन्नः कश्चन कविः वदति - 'काकात् चाञ्चल्यं, यमात् क्रौर्यं, स्थपतितः दृढघातितां च सङ्गृह्य तेषां त्रयाणाम् अद्यक्षराणि च सङ्गृह्य ब्रह्मा ‘कायस्थं’ निर्मितवान् स्यात्' इति ।


गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि ।
प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥

 पत्नी यस्य परमप्रिया भवति तस्य परमप्रियाः भवन्ति तदीयाः बान्धवाः अपि । तान् प्राणसमान् भावयति सः । (पत्नीं तु प्राणेभ्योऽपि गरीयसीं भावयति सः) यथा प्राणैः विना कस्यचित् जीवनम् एव असम्भवं तद्वत् एव गृहिणी, तस्याः भगिनी, तस्याः माता, पिता, तस्याः भ्राता इत्येतैः विना अपि सः जीवितुं न शक्नोति । यतः एते पञ्च जनाः बहिश्चराः प्राणाः इव भवन्ति तस्य ।


भर्तुः पार्वति नाम कीर्तय न चेत् त्वां ताडयिष्याम्यहम् । क्रीडाब्जेन शिवेति सत्यमनघे किं ते शृगालः पतिः ।
नो स्थाणुः किमु कीलको न हि पशुस्वामी तु गोप्ता गवां । दोलाखेलनकर्मणीति विजयागौर्योर्वचः पातु वः ॥ - (काव्यानुशासनात्)

 दोलाखेलनावसरे कदाचित् लक्ष्मीः पार्वतीम् अवदत् प्रेम्णा - 'गौरि ! पत्युः नाम उच्यताम् । अन्यथा अहं क्रीडाब्जेन भवतीं ताडयेयम्' इति । तदा पार्वती अवदत् - 'मम पत्युः नाम शिवः' इति । शिवपदस्य शृगालः इत्यर्थं मत्त्वा लक्ष्मीः अपृच्छत् - 'किं भवत्याः पतिः शृगालः ?' इति । 'मम पतिः स्थाणुरिति निर्दिश्यते' इति उक्तवतीं पार्वतीं लक्ष्मीः अवदत् - 'किं सः स्तम्भः ?' इति । 'सः अस्ति पशुपतिः' इति अवदत् पार्वती । 'तन्नाम सः पशून् चारयति इत्यर्थः' इति अवदत् लक्ष्मीः । एतादृशः लक्ष्मीपार्वत्योः संलापः सर्वेषां मङ्गलाय भवतु ।


शुनां तुरङ्गमानां यः आभिजात्यं समीक्ष्यते ।
मनुष्याणां तु तन्मानं गर्ह्यते स कुतः सुधीः ॥

- आत्रेयलघुलेखमाला

 लोके अश्वशुनकादीनां सत्कुलप्रसूतत्वं प्रशस्यते । उत्तमे कुले जाताः एव ते अधिकं मौल्यम् अर्हन्ति । किन्तु मानवेषु सत्कुलप्रसूतत्वं योग्यतापरिगणनावसरे न परिगण्यते । एतत् तु महते विषादाय एव खलु ? अहो, कलिकालमहिमा !


मेरुः स्थितोऽतिदूरे मनुष्यभूमिं धिया परित्यज्य ।
भीतोऽवश्यं चौर्याच्चोराणां हेमकाराणाम् ॥

 मेरुपर्वतः जनवसतितः सुदूरे अस्ति । तस्य कारणं कश्चन कविः एवम् उत्प्रेक्षते - 'मेरुपर्वतः सुवर्णमयः इति ख्यातः । सुवर्णकाराः च सुवर्णचौर्यं वृत्तेः अङ्गमेव मन्यन्ते । भगिन्या आभरणनिर्माणाय दत्तस्य सुवर्णस्य कश्चन अंशः सुवर्णकारैः चोर्येत एव इति वचनं श्रूयते लोके । एते सुवर्णकाराः स्वीयं सुवर्णम् अपहरेयुः नैरन्तर्येण इति चिन्तयन् मेरुपर्वतः जनवसतितः दूरे तिष्ठति ।'


एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने ।
अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥

 प्राचीनकालीनः श्लोकः अयं वदति - कविः यां कवितां रचयेत् सा कदाचित् अश्वप्राप्तिकारणं भवेत्, पुनः कदाचित् गजप्राप्तिकारणं स्यात्, ग्रामप्राप्तिकारणं वा भवेत् । एतादृशं महत् किमपि न प्राप्येत चेत् वस्त्रं, भोजनं, ताम्बूलं वा तु प्राप्येत एव । एतादृशानां प्राप्तिः कवितायाः योग्यतां, दातुः मनःस्थितिं च अवलम्ब भवति ।


घटकं सम्यगाराध्य वैराग्यं परमं वहेत् ।
यावदर्थाः प्रसिद्ध्यन्ति यावच्चापलमावृतम् ॥

 यः उपायज्ञः स्यात् सः घटकं कञ्चित् कार्ये नियोज्य, विविधैः उपायैः तं बहुधा सन्तोष्य कार्यसिद्धिं निश्चित्य डाम्भिकानि वचनानि वदति जनानां पुरतः - 'न कापि अपेक्षा मम । अहं सर्वथा निःस्पृहः अस्मि' इति । कार्यसिद्धिपर्यन्तम् एव एषः व्यवहारः । फले हस्तगते निःस्पृहतादयः तेन सर्वथा विस्मृताः भवन्ति ।


गोकर्णे भद्रकर्णे च जपो दुष्कर्मनाशनः ।
राजकर्णे जपः सद्यः सर्वकर्मविनाशनः ॥

 गोकर्णक्षेत्रे यदि जपः क्रियेत तर्हि दुष्कार्यजन्यानि पापानि अपगतानि भवेयुः । भद्रजनकर्णे यदि कृतम् अकार्यादिकं पात्येत तर्हि तस्य मार्गदर्शनात् दुष्कर्मणां फलं क्षीणं भवेत् । किन्तु राज्ञः कर्णे यदि कश्चित् अस्मद्विरुद्धं पिशुनतासूचकं किमपि वदेत् तर्हि अस्मदीयानि सर्वाणि कार्याणि विनष्टानि भवेयुः ।


भार्ये द्वे बहवः पुत्राः दारिद्र्यं रोगसम्भवः ।
जीर्णौ च मातापितरौ एकैकं नरकाधिकम् ॥

 यस्य उभे भार्ये, बहवः पुत्राः, महत् दारिद्र्यं, रोगपीडा पौनःपुन्येन, मातापितरौ वृद्धौ च, तस्य गृहं नरकम् अपि अतिशेते । वस्तुतः तु एतेषु एकैकस्य अंशस्य सत्त्वात् अपि जीवनं नरकायेत । एवं स्थिते सर्वेषाम् अंशानाम् एकत्र एव संस्थित्या जीवनं कुतः न अतिनरकायेत ?


भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता ।
अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥

 कश्चन गृहस्थः । तस्य उभे भार्ये । तयोः परस्परं कलहः । उभयोः अपि बहवः पुत्राः । पतिविहीना भगिनी अपि तस्य गृहम् आश्रितवती अस्ति अनन्यगतिकतया । एतादृशस्य गृहस्थस्य जीवने 'अश्रान्तकलहः' नाम योगः स्थिरतया तिष्ठति इत्यत्र कः सन्देहः ? एषः 'अश्रान्तकलह'योगः बहुषु गृहेषु द्रष्टुं शक्यः पूर्वोक्तेषु कारणेषु असत्स्वपि । यतः अखण्डकलहस्य कारणानि अनन्तानि भवितुम् अर्हन्ति ननु ?


दातारोऽर्थिभिरथ्यन्ते दातृभिः पुनरर्थिनः ।
कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥

 दातारः अर्थिभिः (याचकैः) अर्थ्यन्ते (प्रार्थ्यन्ते) । ते च याचकाः दातृभिः अर्थिनः (अर्थवन्तः) क्रियन्ते । एतस्मिन् श्लोके 'अर्थी' इत्यस्य अर्थद्वयम् । अर्थयते इति अर्थी - याचकः । अर्थाः सन्ति अस्मिन् इति अर्थी = धनिकः । ‘अर्थिनः अर्थिनः क्रियन्ते’ इति वाक्यस्य पठनात् विरोधः दृश्यते । ‘अर्थिनः (याचकाः) अर्थिनः (धनिकाः) क्रियन्ते दातृभिः’ इति अवगमनात् विरोधपरिहारः । प्रथमवाक्यस्य कर्ता द्वितीये वाक्ये कर्म, प्रथमवाक्यस्य कर्म द्वितीये वाक्ये कर्ता । एवं कर्तृकर्मपदयोः व्यत्ययात् अर्थव्यत्ययः महान् एव सम्भवति ।


कायस्थेनोदरस्थेन मातुरामिषशङ्कया ।
अन्त्राणि यन्न भुक्तानि तस्य हेतुरदन्तता ॥

 कायस्थः नाम गणनालेखकः । स तु उत्कोचस्वीकरणनिपुणः । सर्वस्मादपि सः कथमपि धनं प्राप्नुयात् एव । धनं गिलति सः । एषः स्वभावः जन्मना एव अर्जितः भवति तेन । मातुः गर्भे यदा सः आसीत् तदा कोमलानि मातुः अन्त्राणि किमर्थं तेन न भुक्तानि ? तत्रापि आमिषत्वं तेन दृष्टं स्यात् एव । तत्र कारणं तु तदीयं दन्तहीनत्वम् । यदि तस्याम् एव अवस्थायां सः दन्तवान् अभविष्यत् तर्हि निश्चयेन मातुः अन्त्राणि अपि अखादिष्यत् एव !!


राज्ञां निर्वहणाय षष्ठ इति यो भागः करः स्वीकृतः । तस्मादेव समस्तराज्यसुखमप्यापादितं पूर्वजैः ।
एकोनं शतमंशमद्य कर इत्यादाय राज्यस्य यत् पर्याप्नोति न सेवकोदरकृतेऽप्येषा विचित्रा स्थितिः ॥

 पूर्वं राजानः प्रजाभ्यः षष्ठं भागं करत्वेन स्वीकुर्वन्ति स्म । ततः एव राज्यशासनं सुष्ठु प्रचलति स्म । प्रजाश्च सुखेन भवन्ति स्म । किन्तु अद्यत्वे सर्वकारः तु एकोनशततमं भागं (99%) स्वीकरोति जनेभ्यः करत्वेन । तथापि सर्वकारेण यत् प्राप्येत तत् तत्रत्यानाम् उद्योगिनां वेतनाय अपि अपर्याप्तं भवति । एवमस्ति शासनदक्षता !! अहो कालस्य विचित्रा गतिः !!


विहंगा वाहनं येषां त्रिशंचधरपाणयः ।
पासालसहिता देवाः सदा तिष्ठन्तु मे गृहे ॥

 आपाततः दर्शनात् अस्य श्लोकस्य तात्पर्यं न अवगम्यते । श्लोकार्थः तु - ‘‘गरुडः, हंसः वृषभः च येषां वाहनं, त्रिशूलं, शङ्खः चक्रं च येषां हस्ते विराजते, पार्वती सावित्री लक्ष्मीः च येषां पत्न्यः, ते देवाः मम गृहे सदा निवसन्तु’’ इति । पूर्णस्य श्लोकार्थस्य अवगमनात् एव खलु स्वारस्यम् अनुभूयते ?


सेवा श्ववृत्तिर्यैरुक्ता तैरसम्यगुदाहृतम् ।
स्वच्छन्दचरितः क्व श्वा विक्रीतात्मा क्व सेवकः ॥

 सेवा नाम शुनकस्य आचारः इव इति वदन्ति केचन । तत् अयुक्तम् इति एतस्य श्लोकस्य रचयितुः आशयः । शुनकः तु स्वच्छन्दव्यवहारवान् । तस्य सञ्चारे न कस्यापि निर्बन्धः । (पालितः शुनकः बन्धनादिना निर्बध्यते इति तु अन्यत्) सेवकः तु भवति विक्रीतात्मा । अभिमानशून्यतया जीव्यते तेन । अतः सेवकस्य शुनः च न भवितुम् अर्हति सादृश्यम् ।


वालिनं रावणं रामं सुग्रीवं च विभीषणम् ।
शत्रुघ्नं भरतं हित्वा सीतया किं प्रयोजनम् ?

 'उत्तमपुच्छयुक्तः, भीकरं शब्दं कुर्वाणः, मनोहरः, सुन्दरकण्ठयुक्तः, क्वचित् उग्ररूपं धरन्, शत्रुसंहारकः, भारवहनसमर्थः वृषभः यदि न भवेत् तर्हि कृषिपद्धत्या न किमपि प्रयोजनम्' इति वदति कश्चन कृषिकः । आपाततः श्लोकस्य दर्शनात् अर्थावगतिम् अप्राप्य चिन्ताक्रान्तानां भवतां सन्देहाः इदानीम् अपगताः स्युः ननु ?


सन्ततकुटिलकरालः परुषाक्रोशी हठाभिघातपरः ।
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥

 अधिकारमदः यस्य भवति सः सर्वदा वक्रगतिः भवति, घोरः भवति, परुषवाक्यवक्ता भवति, हठात् आघातं करोति च । स्वेच्छाचारस्य तस्य दुर्व्यवहारस्य इयत्ता एव न भवति । यद्यत् लभ्येत तत्सर्वं स्वायत्तीकर्तुं प्रयतमानः सः क्रूरः राक्षसः एव’ इति सुभाषितस्यास्य आशयः । एतादृशः एव व्यवहारः अधिकारमदमत्तेषु जनेषु अद्यापि दृश्यते एव ननु ?


यावदज्ञानतो मौनमाचारो वा विलक्षणः ।
तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके ॥

 मान्त्रिकाः, ज्योतिषिकाः, पुरोहिताः, नेतारः इत्यादयः स्वमाहात्म्यं वर्धयितुम् इच्छन्ति सदापि । तान् उद्दिश्य कविः कश्चन अत्र मार्गद्वयं दर्शयति । 'करणीये कार्ये अज्ञानं यदि स्यात् तर्हि मौनम् आचरणीयम् । अथवा विलक्षणः व्यवहारः करणीयः । तदा अनयोः व्यवहारयोः विशिष्टार्थं कञ्चित् परिकल्पयन्तः द्रष्टारः आचरितरि अधिकं गौरवं प्रदर्शयन्ति ।'

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(अन्ये)&oldid=17667" इत्यस्माद् प्रतिप्राप्तम्