पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०३ गोमूत्रिकाबन्धः)

(चित्रपद्धतिस्त्रिंशी (गोमूत्रिकाबन्धः) इत्यस्मात् पुनर्निर्दिष्टम्)

३. सुरासुरार्चिता धन्या तुङ्गमङ्गलपालिका । चराचराश्रिता मान्या रङ्गपुङ्गवपादुका ॥

गोमूत्रिकाबन्धः GomuutrikaBandaha

पदविभागः सम्पाद्यताम्

सुर-असुर-अर्चिता, धन्या, तुङ्ग-मङ्गल-पालिका, चर-अचर-आश्रिता मान्या रङ्ग-पुङ्गव-पादुका ॥

प्रतिपदार्थः सम्पाद्यताम्

सुरासुरार्चिता – देवैः असुरैः च पूजिता, धन्या – सकलसम्पद्भरिता, तुङ्गमङ्गलपालिका – उत्कृष्टानां मङ्गलानां पालयित्री,
चराचराश्रिता – स्वस्मिन् चित्ररूपेण स्थितैः चरैः अचरैः च आश्रिता, रङ्गपुङ्गवपादुका – श्रीरङ्गनाथस्य पादुका,
मान्या – सकलानां गौरवार्हा अस्ति ।

तात्पर्यम् सम्पाद्यताम्

श्रीरङ्गनाथस्य पादुका सर्वैः देवैः असुरैः च पूजिता तेभ्यः क्षेमकारिणी, परमभाग्यशालिनी, सकलसम्पद्भरिता च
भूत्वा आश्रितेभ्यः ताः ददती, उत्कृष्टानि श्रेयांसि दत्वा तान् रक्षति । तस्याः शरीरे स्थितानि चराचररूपाणि दृष्ट्वा
एवं भाति - भगवान् यथा स्वविश्वरूपे समस्तं स्थावरजङ्गमं धृत्वा रक्षति तद्वत् श्रीरङ्गे नित्यवासं कुर्वतः श्रीरङ्गनाथस्य
पादुका एषापि अपारमहिमान्विता सर्वेषां स्तुत्यर्हा अस्ति ।

विशेषः सम्पाद्यताम्

अस्मिन् श्लोके गोमूत्रिकाबन्धः नाम चित्रम् अस्ति । श्लोकस्य प्रथमद्वितीयार्धयोः समस्थानेषु स्थितानि अक्षराणि
एकरूपाणि सन्ति । पूर्वार्धे उत्तरार्धे वा स्थितानि एतानि समाक्षराणि यदि अपरार्धे स्थितैः विषमाक्षरैः सह पठ्यन्ते
तदा अस्यैव श्लोकस्य आनुपूर्वी लभ्यते । अयं च पठनक्रमः गौः यदा चलन् मूत्रविसर्जनं करोति तद्वद् अस्ति इति
कारणेन अस्य गोमूत्रिकाबन्धः इति नाम ।