पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०५ निरोष्ठ्यम्)

(चित्रपद्धतिस्त्रिंशी (निरोष्ठ्यम्) इत्यस्मात् पुनर्निर्दिष्टम्)

५. अनन्यशरणः सीदन्ननन्तक्लेशसागरे । शरणं चरणत्राणं रङ्गनाथस्य संश्रये ॥

पदविभागः सम्पाद्यताम्

अनन्य-शरणः, सीदन्, अनन्त-क्लेश-सागरे, शरणं, चरण-त्राणं, रङ्गनाथस्य संश्रये ।

प्रतिपदार्थः सम्पाद्यताम्

अनन्त-क्लेश-सागरे – अन्तरहितानां क्लेशानां समुद्रे, सीदन् – सङ्कटम् अनुभवन्,
अनन्यशरणः – अपरं रक्षकं विना (अहम्), रङ्गनाथस्य चरणत्राणं – रङ्गनाथस्य पादरक्षां,
शरणम् – उपायत्वेन, संश्रये – आश्रये ।

तात्पर्यम् सम्पाद्यताम्

'संसारः अयम् अत्यन्तं क्लेशभूयिष्ठः अनन्तः च । अनादिकालेन अहम् अत्र संसरमाणः केवलं
दुःखान्येव अनुभवन् इतः आत्मानम् मोचयितुं पादुकासम्बन्धं विना अन्यम् उपायम् अविन्दन्,
रङ्गनाथस्य पादरक्षामेव उपायत्वेन वृणे' । संसारमोचनं भगवत्सम्बन्धेन एव भवति । स च
भगवत्सम्बन्धः पादुकाद्वारा सदाचार्यसम्बन्धेन च एव सिध्येत् । अतः संसारात् मुमुक्षुः तामेव
पादुकां शरणं व्रजेत् इति शास्त्रार्थः अत्र उच्यते ।

विशेषः सम्पाद्यताम्

अस्मिन् श्लोके शब्दचित्रस्य नाम ‘निरोष्ठ्यम्’ इति । अत्र ओष्ठ्यवर्णाः (उकारः, पवर्गः, उपध्मानीयः वा)
न सन्ति ।