पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१५ द्विशृङ्गाटकचक्रबन्धः)

१५. सुरकार्यकरी देवी रङ्गधुर्यस्य पादुका ।
कामदा कलितादेशा चरन्ती साधुवर्त्मसु ॥

पदविभागः सम्पाद्यताम्

सुर-कार्य-करी, देवी, रङ्ग-धुर्यस्य, पादुका, काम-दा, कलित-आदेशा,
चरन्ती, साधु-वर्त्मसु ।

प्रतिपदार्थः सम्पाद्यताम्

सुर-कार्य-करी – देवतानाम् इष्टं सम्पादयन्ती अनिष्टं च दूरीकुर्वती, रङ्ग-धुर्यस्य - रङ्गे
नाट्यं निर्वर्तयतः भगवतः, देवी – क्रीडने आसक्ता, कलित-आदेशा – श्रुतिस्मृतिरूपाम्
आज्ञां धरन्ती, साधु-वर्त्मसु – सत्पथेषु, चरन्ती – सञ्चरन्ती पादुका, काम-दा – (आश्रितानाम्)
अभीष्टानि ददाति ।

तात्पर्यम् सम्पाद्यताम्

पूर्वतनश्लोके यदुक्तं ‘पादुका लोकरक्षणार्थं जाता, लक्ष्मीकटाक्षं च विदधाति, श्रीमद्रामायणादिकाव्येषु
स्तुतवैभवा’ इति, तत् न केवलम् अर्थवादः अपि तु वास्तवेन सा अस्यां लोकरक्षणार्थायां क्रीडायां
(देवशब्दः ‘दिव् क्रीडने’ इति धातोः निष्पन्नः) भगवतः सहाया अस्ति । तेन सह लोकसृष्ट्यादिलीलां
विदधती सा सुराणाम् इष्टार्थं सम्पादयन्ती, अनिष्टानि च निवर्तयन्ती तेषां विरोधिनां तामसप्रकृतीनाम्
असुराणां विपरीतफलानि च ददाति । श्रुतिस्मृतिषु ये विधिनिषेधरूपाः आदेशाः सन्ति तान् स्वयं
परिपालयन्ती सन्मार्गे चरन्ती च इयं पादुका भगवद्भक्तान् उपसृत्य आश्रितेभ्यः तेभ्यः सकलान् पुरुषार्थान्
ददाति ।

विशेषः सम्पाद्यताम्

अस्य शब्दचित्रस्य ‘द्विशृङ्गाटकचक्रबन्धः’ इति नाम । (चित्रं पश्यत ।)