पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०१ वर्णावृत्तेरनुप्रासः)

प्रार्थना सम्पाद्यताम्

॥ अस्म्द्गुरुभ्यो नमः ॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः । जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥
भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् ।
यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥

पादुकासहस्रे चित्रपद्धतिः त्रिंशी सम्पाद्यताम्

१. प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥

पदविभागः सम्पाद्यताम्

प्रतिष्ठाम्, सर्वचित्राणाम्, प्रपद्ये, मणि-पादुकाम्, विचित्र-जगद्-आधारः, विष्णुः, यत्र, प्रतिष्ठितः ।

प्रतिपदार्थः सम्पाद्यताम्

सर्वचित्राणाम् – सकलानां चित्राणाम्, प्रतिष्ठाम् – विषयभूताम्, मणिपादुकाम् – श्रीरङ्गनाथस्य मणिखचितां पादुकाम्,
प्रपद्ये – उपायत्वेन आश्रये । यत्र - यस्यां पादुकायाम्, विचित्र-जगद्-आधारः – आश्चर्यावहस्य जगतः आधारभूतः,
विष्णुः – सर्वव्यापी रङ्गनाथः, प्रतिष्ठितः – सर्वदा निरपायः अवस्थितः ।

तात्पर्यम् सम्पाद्यताम्

श्रीरङ्गनाथस्य मणिखचिता पादुका तस्य अनेकेषाम् आश्चर्यजनकानां विचित्रचेष्टितानाम् आधारः/प्रतिष्ठा अस्ति ।
रामावतारे अश्मायितायाः अहल्यायाः शापविमोचनम्, कृष्णावतारे द्रोणपुत्रस्य अश्वत्थाम्नः अस्त्रेण विप्लुष्टाङ्गस्य परीक्षितः
जीवरक्षणम् इत्यादीनि व्यापारचित्राणि अत्र अभिप्रेतानि । अनेकविधरत्नानां विद्यमानत्वेन बहुवर्णमयी, शङ्खपद्माद्याकृतिभिः
च विचित्रा पादुका आलेख्यचित्राणां प्रतिष्ठा/आधारः अस्ति । तां रामपादुकाम् अहं प्रपद्ये इति कविः वदति ।

विशेषः सम्पाद्यताम्

अस्मिन् श्लोके अनुप्रासः नाम शब्दालङ्कारः विद्यते । वर्णावृत्तिः अनुप्रासः पादेषु च पदेषु च इति तस्य लक्षणम् ।
‘प्र’ इति वर्णस्य आवृत्तिः त्रिषु पादेषु दृश्यते ।