पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२७ पादचतुष्टयभागावृत्तियमकम्)

 
२७. रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे ।
कृतपरिचरणा वनीपकैर्निगममुखैश्च रणावनीगता ॥

पदविभागः सम्पाद्यताम्

रघुपति-चरण-अवनी, तदा, विरचित-सञ्चरणा, वनी-पथे, कृत-परिचरणा, वनीपकैः निगम-मुखैः च रण-अवनी-गता ।

प्रतिपदार्थः सम्पाद्यताम्

तदा – तस्मिन् समये (विश्वामित्रस्य यज्ञसंरक्षणार्थं यदा रामः गतः तदा), वनीपथे –अरण्यमार्गे, कृतपरिचरणा – कृतसञ्चारा,
रणावनीगता – युद्धभूमिं गता, रघुपतिचरणावनी – राघवस्य पादुका, वनीपकैः – याचकैः, निगममुखैः – वेदान् मुखे धरद्भिः
(वेदाभ्यासरतैः गौतमशतानन्दादिभिः महर्षिभिः), कृतपरिचरणा – परिचर्यां पाप्तवती ।

तात्पर्यम् सम्पाद्यताम्

विश्वामित्रस्य यज्ञसंरक्षणार्थं यदा रामः गतः तदा तस्य पादुका अरण्यमार्गे सञ्चारं कृतवती । मारीचसुबाहुप्रभृतिभिः
युद्धभूमिं गता रघुकुलोत्तमस्य पादुका तपस्सिद्धिं राक्षसभयात् रक्षणं च याचतां तपस्विजनानां रक्षणं कृतवती । तपस्विभिः
तथा च निगमा एव मुखानि येषां तैः वेदाभ्यासरतानां गौतमशतानन्दादीनां महर्षीणां परिचरणं च पाप्तवती एषा पादुका ।

विशेषः सम्पाद्यताम्

अस्मिन् श्लोके ‘पादचतुष्टयभागावृत्तियमकम्’ इति शब्दचित्रम् । अर्थात् पादस्य चतुष्टयः भागः ‘चरणावनी’ इति शब्दः ।
स च चतुर्षु अपि पादेषु आवृत्तिं प्राप्नोति इति विशेषः । श्लोकः उपजातिवृत्ते निबद्धः । प्रथमः तृतीयश्च पादः
एकादशाक्षरयुतः त्रैष्टुभच्छन्दसि वर्तते । द्वितीयः चतुर्थश्च पादः द्वादशाक्षरयुतः जागतच्छन्दसि वर्तते ।