चिन्तनीया हि विपदाम्...

सुभाषितम्

चिन्तनीया हि विपदाम् आदावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वन्हिना गृहे ॥

समयोचितपद्यमालिका अध्यायः ७

cintanīyā hi vipadām ādāveva pratikriyā ।
na kūpakhananaṃ yuktaṃ pradīpte vanhinā gṛhe ॥

पदच्छेदः

चिन्तनीया, हि, विपदाम्, आदौ, एव, प्रतिक्रिया, न, कूपखननं, युक्तं, प्रदीप्ते, वन्हिना, गृहे ॥


तात्पर्यम्

गृहं दग्धमाने जलनिमित्तं कूपखननं परममूर्खता । तथैव आदौ एव आपत्तीनां परिहारः अन्वेष्टव्यः, न तु विलम्बेन ।


आङ्ग्लार्थः

It is improper to start digging the well after the house has caught fire ! We should be pro-active i.e. we should have the solutions ready even before some problem comes to us.

"https://sa.wikiquote.org/w/index.php?title=चिन्तनीया_हि_विपदाम्...&oldid=17751" इत्यस्माद् प्रतिप्राप्तम्