चिरनवीना संस्कृता...


चिरनवीना संस्कृता एषा, गीर्वाणभाषा

चिरनवीना संस्कृता एषा ॥


महतो भूतस्य नि:श्वसितम्
अस्ति यस्याम्, अतिपुरातन-वेदसाहित्यम्
शास्त्रपूरै: स्मृतिविचारै:
वरकवीनां काव्यसारै:
चित्रिता मञ्जुला मञ्जूषा, मञ्जुला भाषा ॥१॥


वाल्मीकि-व्यास-मुनिरचितं,
रामायणं महाकाव्यं महाभारतं
क्लैब्यकिल्बिष-कलित-पार्थं
कार्यविषये योजयन्ती
अस्ति यस्यां भगवती गीता, भगवता कथिता ॥२॥


मातृभाषा मातृभाषाणाम्, भवितुमर्हा
राष्ट्रभाषा भारतीयानाम्,
भवतु भाषाद्वेषनाश:
सर्वथा उद्घोषयाम:

भारतीया भारती एषा, अनुपमा सरसा ॥३॥
- नारायणभट्ट:


"https://sa.wikiquote.org/w/index.php?title=चिरनवीना_संस्कृता...&oldid=15418" इत्यस्माद् प्रतिप्राप्तम्