छायामन्यस्य कुर्वन्ति...

सुभाषितम्

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥अनुष्टुप्




तात्पर्यम्

वृक्षाः सत्पुरुषाः इव । स्वयम् आतपे तिष्ठन्तः छायां फलानि च अन्येभ्यः यच्छन्ति ।