छुरिकाकूष्माण्डन्यायः

एका लघ्वी छुरिका महान्तं कूष्माण्डमपि खण्डशः कर्तुं समर्था । एवं समर्थः अल्पवयाः अपि सन् अत्यन्तसमर्थम् अतिशरीरं वा पराजेतुं समर्थ इति अयं न्यायः बोधयति ।

तेजसां हि न वयः समीक्ष्यते ॥ रघुवंशे ११-१