जतुकाष्ठन्यायः
काष्ठे जतुद्रव्यस्य एकरुपता भवति तथा एकरुपतां दर्शयितुम् अस्य न्यायस्य प्रयोगो भवति । यथा – संस्कृतभाषायाम् अलङ्कारशास्त्रे अभङ्गश्लेषः सभङ्गश्लेष इति प्रकारद्वयं वर्तते । शब्दश्लेषः इति च श्लेषस्यैव प्रकारद्वयम् । शब्दश्लेषे भिन्नवाक्यानां युगपदेव उच्चारणं भवति अर्थश्लेषे एकस्यैव वाक्यस्य भिन्नार्थाः भवन्ति । सभङ्गश्लेषस्य विवरणरुपेण अस्य न्यायस्य प्रयोगः क्रियते । जतुकाष्ठरुपेण सभङ्गश्लेषे एका शब्दावलिः अपरया अह एकरुपतां प्राप्नोति । (सा- ६१८)