जलतरङ्गबुद्बुदन्यायः

जलतरङ्गाः बुद्बुदाश्च जले एव उत्पद्य किञ्चित्कालं यावत् स्थित्वा तस्मिन्नेव जले विनश्यन्ति । जलं तेषां जन्मस्थानं विलयस्थानं च । मूलकारणे उत्पन्नाः ते सर्वेऽपि तस्मादभिन्नाः इति अनेन बोध्यते । पश्यन्तु- चेतनाचेतनप्रपञ्चस्य जले तरङगबृदबुदन्यायेन तत्रैव उत्पत्तिप्रलययोः श्रवणादेव प्रतीतिः सर्वस्य प्रभवाप्ययौ हि भूतानामिति तदन्यत्वात् सर्वस्येति भाव इत्युक्तम् ॥ (महाभारतसभापर्वणि अ. ४०-१४ इत्यस्य नीलकण्ठी )