जलतुम्बी इति कूष्माण्डास्यैव आकारस्य फलविशेषः । तस्याः उपरि मृत्तिकां लेपयित्वा जले क्षिपामः चेत् मृत्तिकायाः प्रभावेन सा जलतुम्बी जले प्लवते । मृत्तिकायां विशीर्णायां सा जले निमज्जति । एवं कस्यापि आधारेण जीवनं नयतः मनुष्यस्य शक्तिर्नाम सः आधारः, यदा सः आधारः नष्टः सः तदा विनश्यतीत अनेन न्यायेन सूच्यते ।

"https://sa.wikiquote.org/w/index.php?title=जलतुम्बिकान्यायः&oldid=10065" इत्यस्माद् प्रतिप्राप्तम्