जलम् अग्निश्च परस्परविरोधिद्रव्यद्वयम् । तद् द्वयम् एकत्र स्थातुं न शक्नोति । यस्य अंशो न्यूनः सः शीघ्रं नश्यति । तथैव द्वयोः परस्परं वैरं वहतोः एकत्र स्थितिः अशक्या । स्थितौ जातायामपि यः दुर्बलः तस्य नाशः अचिरादेव भवति इति न्यायेन अनेन सूच्यते ।

"https://sa.wikiquote.org/w/index.php?title=जलाग्निन्यायः&oldid=10073" इत्यस्माद् प्रतिप्राप्तम्