स्वभावेन जलं शीतलं भवति । उष्णे कृते सति जले उष्णता भवति । तदा उष्णं जलम् इति व्यवहारो भवति । स्वाभाविकेन धर्मेण सह अपरः धर्मः आहार्यरुपेण स्वीक्रियते । अयं यदृच्छाधर्मो भवति प्राणप्रदो न । एकस्य स्थाने अपरस्य आरोपो भवति । यथा- उष्णत्वमग्न्यातपसंप्रयोगात् शैत्यं हि सा यत् प्रकृतिर्जलस्य ॥ रघुवंशे ५-५४

"https://sa.wikiquote.org/w/index.php?title=जलौष्ण्यन्यायः&oldid=17678" इत्यस्माद् प्रतिप्राप्तम्