जागृहि जागृहि...


जागृहिऽऽ जागृहिऽऽ
भरतपुत्र लोकमित्र जागृहिऽऽ
क्षात्रतेजसा समेत्य निर्भयं पुर: सरन्
मातृसेवनं विधातुमेहि स्वं समर्पयन् ॥

स्मर सदापि हिमगिरेस्तुङ्गतामकम्पिताम्
पश्य वीर वारिधे: परमगम्भीरताम्
किं नु लोकधारिणी धरणिरेति खिन्नताम्
द्वन्द्वभावनां विभिन्दि छिन्दि जाड्यजालिकाम् ॥

सत्कुलप्रसूत मौनमास्थित: कुतश्चिरं
दीपय ध्येयदीपमात्मनो हृदन्तरे
ध्येयसङ्गतैस्समेत्य विचिनु कार्यमार्गम्
मोहबन्धनं विधूय कुरु समष्टिचिन्तनम् ॥

देशधर्मसंस्कृती रक्षयन् विवर्धयन्
पतितमुद्धरन् प्रयाहि जहिहि भेदभावनाम्
चरमलक्ष्यमस्तु जन्मभूमिपरमवैभवम्
मातृसेवया कुरुष्व सार्थकं स्वजीवनम् ॥


- जनार्दन हेगडे


"https://sa.wikiquote.org/w/index.php?title=जागृहि_जागृहि...&oldid=15430" इत्यस्माद् प्रतिप्राप्तम्