जागृहि त्वं भारतीय !...


जागृहि त्वं भारतीय, प्रभातं समुपस्थितम्
संस्कृतज्ञ ! प्रयामश्चल !
वयंं राष्ट्रे जागृयाम, वयंं राष्ट्रे जागृयाम ॥

बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितम्
शृणु श्रवणसुखप्रदं कवि-सुभाषितकलकिलकिलम् ।
पश्य विश्वहितास्पदं त्यागारुणं कलयागतम्
ज्ञानभानुमुपास्महे धियो यो न: प्रेरयेत्, धियो यो न: प्रेरयेत् ॥

विसृज जाड्यं मोहजनितं, त्यजालस्यं मानसम्
श्रुति-स्मृतिऋषिशङ्खनादैर्दमय मन्देहासुरान् ।
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतम्
भारतीसुप्रज:कार्यं मातृसेवनमाह्निकं , मातृसेवनमाह्निकम् ॥

मन:क्षेत्रं समं कृत्वा स्नेेहलतिका रोप्यताम्
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम् ।
संविभज्य ज्ञानसलिलं समै: सह सम्भुज्यताम्
मुनिवचनकृतिशान्तिधृतिभि: भारतश्री: साध्यतां, भारतश्री: साध्यताम् ॥


- दोर्बलप्रभाकरशर्मा


"https://sa.wikiquote.org/w/index.php?title=जागृहि_त्वं_भारतीय_!...&oldid=15375" इत्यस्माद् प्रतिप्राप्तम्