जायेदस्तम् ॥ (ऋग्वेदः ३-५३-४)

सम्पाद्यताम्

गृहिणी एव गृहायते ।

मृत्तिकाशिलाभिः निर्मितं भवनमात्रम् । न तु गृहम् ! तत् गृहं तदा एव भवेत् यदा इदं मदीयं भावयन्ती, तस्मिन् प्रीति-प्रेम-त्याग-सहकारादिभावान् प्रवाहयन्ती काचित् गृहिणी तत्र स्यात् । सा एव गृहायते । 'न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते' - इत्येतस्य सुभाषितस्य मूलम् अस्मिन् वेदमन्त्रे विद्यते । मृत्तिकाशिलाभिः निर्मितमेव गृहं यदि स्यात् तर्हि उपाहारमन्दिरं छात्रावासादयः अपि गृहाणि अभविष्यन् ! अत्रापि यद्यपि भोजन-वसत्यादयः विद्यन्ते, आदर-नमस्कारादयः दृश्यन्ते तथापि अत्र विद्यमाना दृष्टिः एका एव - धनम् । किन्तु गृहिणी धननिमित्तं न कार्यं करोति । स्वकीयानां हिताय तया क्रियमाणः त्याग-सेवादयः अमूल्याः । पुरुषाणाम् उपजीविकायाः बहु गुणितमेव भवेत् तदीयः परिश्रमः । किन्तु रूढौ बहिः कार्यं कुर्वाणः पुरुषः श्रेष्ठः, गृहे कार्यं कुर्वाणा महिला सेविकामात्रम् इत्येषः भावः बहूनां कुटुम्बानां समस्यायाः मूलकारणं जातमस्ति । स्वस्य गर्भे स्वस्य गृहे अग्रिमस्य सन्तानस्य रूपयित्री पत्नी/जननी एव गृहम् । तस्याः निमित्तमेव गृहम् इति यदि अवगमनं स्यात् तर्हि बह्व्यः कौटुम्बिकसमस्याः परिहृताः स्युः, सबलायाः सन्ततेः निर्माणमपि साध्यं भवेत् ।
"https://sa.wikiquote.org/w/index.php?title=जायेदस्तम्_॥&oldid=1199" इत्यस्माद् प्रतिप्राप्तम्