जीवनस्य लक्ष्यमेव...


जीवनस्य लक्ष्यमेव लोकसेवनव्रतम् ।
सेवया हि जीवनं सार्थकं फलान्वितम् ॥

अन्धकारजीवने दीपमुद्दीपयाम
क्लेशबहुलवीथिका कण्टकान्युत्खनाम ।
त्रस्तदीनबान्धवान् हस्तलम्बमुन्नयाम
न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥

प्रतिजनं प्रतिदिनं ध्येयमारोपयाम
श्रद्धया विशुद्धया दीनदेवमर्चयाम ।
स्वार्थभावनां विना सर्वमपि समर्पयाम
जनहितं वरप्रदं हृदिचिरं स्थापयाम ॥

लोकसेवनं ध्रुवं दैवसमाराधनम्
दीनबन्धुसेवनान्नास्ति परं पुण्यदम् ।
कार्यतत्परा वयं साधयाम दिग्जयम्
वर्धतां समेधतां ऋद्धिमद्धिभारतम् ॥




"https://sa.wikiquote.org/w/index.php?title=जीवनस्य_लक्ष्यमेव...&oldid=15400" इत्यस्माद् प्रतिप्राप्तम्