जुष्टस्ततस्तेन...
ईश्वरानुग्रहस्य फलमिदम् !
जुष्टस्ततस्तेन अमृतत्वमेति । - श्वेताश्वतरोपनिषत् १-६
ईश्वरेण अनुगृहीतः जीवः अमृतत्वम् एति ।
जीवात्मा अविद्यया पुनः पुनः जायमानः म्रियमाणश्च सुखदुःखानि
अनुभवन् दुःखी भवति । अहम् अन्यः ईश्वरः अन्यः इति भेदज्ञानमेव
अविद्या । अविचारदशायाम् एषा अविद्या अनादिः अनन्ता सहजा
इव च दृश्यते । आत्मतत्त्वविचारमात्रेण च इयम् अविद्या अपगच्छति ॥
आत्मतत्त्वविचारः तावता सुलभेन कर्तुं शक्यते वा ? नैव । ईश्वरानुग्रहादेव
अस्माकम् आत्मतत्त्वविचारे प्रवेशो लभ्येत । ईश्वरानुग्रहादेव मानवस्य
अध्यात्मविचारमार्गे प्रवृत्तिः स्यात् । ईश्वरानुग्रहादेव अस्माकं वेदान्तार्थप्रतिपत्तिर्भवेत् ।
ब्रह्मात्मविज्ञाने जाते सति अविद्या अपगता भवति । अविद्यानाशे सति
जीवस्य संसारित्वमपि नष्टमेव भवति । ततोऽमृतत्वं मोक्षं प्राप्नोति ।
तस्मात् अध्यात्मसाधकैः प्रप्रथमतः ईश्वराराधनेन ईश्वरानुग्रहपात्रता सम्पादनीया ।
तस्माद् ईश्वराराधनं कर्तव्यमेव मुमुक्षुभिः ॥