जैनदर्शनसूक्तयः (अनुमानम्)

<poem> १. चन्द्रादेर्जलचन्द्रादिप्रतिपत्तिस्तथाऽनुमा । - लघीयस्त्रयः ३.१३

२. धूमदर्शनतो बह्निं नावगच्छति कः पुमान् । - जीवन्धरचम्पूः २.१२

३. भविष्यत् प्रतिपद्येत शकटं कृत्तिकोदयात् । - लघीयस्त्रयः ३.१४

४. शीते वाते समायाते कः समीपे जलस्थितिम् । - जीवन्धरचम्पूः १.१२

५. साधनात्साध्यविज्ञानमनुमानम् । - न्यायदीपिका ३, पृ० ६५

६. सम्यक्साधनात् साध्यविज्ञानमनुमानम् । - प्रमाप्रमेयः १.१६