जैनदर्शनसूक्तयः (अविवेकः)

<poem> १. अविविच्य क्रिया नैव श्रेयसे बलिनामपि । - पार्श्वनाथचरितम् ७.८४

२. किं ब्रीहिखण्डनाया- सैस्तण्डुलानामसम्भवे । - क्षत्रचूडामणिः २.४४

३.गजोऽपि निपतेत् गर्ते वृत्तस्तमसि चर्यया । - पार्श्वनाथचरितम् ७.८४

४. निजे पाणौ दीपे लसति भुवि कूपे निपतताम् । - जीवन्धरचम्पूः २.१९

५. विपाके हि सतां वाक्यम्, विश्वसन्त्यविवेकिनः । - क्षत्रचूडामणिः १.३५