जैनदर्शनसूक्तयः (अहिंसा)
<poem> १. अहिंसादिगुणाढ्यस्य किमु धर्मस्य दुष्करम् ? - पद्मपुराणम् ८०.१३८)
२. अहिंसा प्रवरमूलं धर्मस्य परिकीर्तितम् । - पद्मपुराणम् २६.१००
३. अहिंसाशुद्धिरेषा स्याद्
- ये निः सङ्गा दयालवः । - आदिपुराणम् ३९.३०
४. अहिंसैव हि संसारमरावमृतसारणिः । - योगशास्त्रम् २.५०
५. अहिंसैव परो धर्मः स एको विश्वरक्षकः । - श्रावकधर्मप्रदीपः १.३.२
६. पुराणं धर्मशास्त्रं च
- तत्स्याद् वधनिषेधि यत् । - आदिपुराणम् ३९.२३
७. प्राणिनां रक्षणे धर्मः । - पद्मपुराणम् १२.१३२
८. मातेव सर्वभूतानामहिंसा हितकारिणी । - योगशास्त्रम् २.५१
९. स्थूलवधाद्विरमणमहिंसा । - रत्नकरण्डश्रावकाचारः ३.५३