जैनदर्शनसूक्तयः (इच्छा)
<poem> १. अञ्जसा कृतपुण्यानां
- न हि वाञ्छापि वञ्चिता । - क्षत्रचूडामणिः ८.६७
२. कोटेरप्यधिकं हन्त जन्तूनां हि मनीषितम् । - क्षत्रचूडामणिः ११.३०
३. धिगिच्छामन्तवर्जिताम् । - पद्मपुराणम् ५.३०७
४. निस्सारमीहितं सर्वं संसारे दुःखकारणम् । - पद्मपुराणम् ३९.३६
५. सुकृतीनामहो वाञ्छा सफलैव हि जायते । - क्षत्रचूडामणिः५.३६