जैनदर्शनसूक्तयः (कर्म)

<poem> १. अवश्यं ह्यनुभोक्तव्यं,

कृतं कर्म शुभाशुभम् । - क्षत्रचूडामणिः १.१०४

२. कर्मकमेव संसारे शंस्यते धर्मकारणम् । - पद्मपुराणम् ८९.९८

३. कर्मण्युपस्थिते कोऽत्र बली ? - पांडवपुराणम् १२.२७५

४. कर्मणामुचितं तेषां सर्वं फलमुपाश्नुते । - पद्मपुराणम् ३१.७६

५. कर्मतो बलवान्नान्यो वर्तते भववासिनाम् । - पांडावपुराणम् १२.२७१

६. कर्मास्त्रवेण जीवानां संपातोऽत्र भवार्णवे । - वीरवर्धमानचरितम् ५.८३

७. कुर्वन्ति मोहान्धाः कर्मात्रामुत्र नाशदम् । - वीरवर्धमानचरितम् ३.२९

८. चित्रं विलसितं विधेः । - उत्तरपुराणम् ६२.५०८

९. चित्राहि चेतसो वृत्तिः प्रजानां कर्महेतुका । - पद्मपुराणम् ११२.९०

१०. जन्तोर्निजकर्मबान्धवः शत्रुरेव वा । - पद्मपुराणम् ११२.९०

११. जायते विफलं कर्माप्रेक्षापूर्वककारिणाम् । - पद्मपुराणम् १२.१६५

१२. देवासुरमनुष्येन्द्रः स्वकर्मवशवर्तिनः । - पद्मपुराणम् ११३.११

१३. नर्त्यन्ते कर्मभिः जन्तवः । - पद्मपुराणम् ११.१२३

१४. निकाञ्चितकर्मनरेण येन यत्तस्य भुङ्क्ते स फलं नियोजात् । - पद्मपुराणम् ७२. ९७

१५. नेत्रे निमील्य सोढव्यं कर्मपाकमुपागतम् । - पद्मपुराणम् १७.८१

१६. पुराकृतं ननु काले नियमने पच्यते । - पार्श्वनाथचरितम् ३.५१

१७. फलति फलं स्वकर्म

जगतां हि यथाविहितम् । - हरिवंशुपुराणम् ४९.१७

१८. भवेऽस्मिन् यत् कृतं किञ्चित्

परस्मिन् मोक्ष्यते मया । - श्रावकधर्मप्रदीपः २.५५

१९. विधेर्विलसितं चित्रमगम्यं योगिनामपि । - उत्तरपुराणम् ७१.२९९

२०. सर्वे जीवाः स्वकृतभोगिनः । - हरिवंशुपुराणम् ६५.४७

२१. स्वकृतप्राप्तिवश्यानां किं करिष्यन्ति देवताः । - पद्मपुराणम् १२३.४०