जैनदर्शनसूक्तयः (कविः)
<poem> १. कविप्रकाशे खल एव हेतुर्यतश्च
- तस्मिन् सति तत्प्रकर्षः । - ब० च० १.२१
२. त एव कवयो लोके त एव च विचक्षणाः,
- येषां धर्मकथाङ्गत्वं भारती प्रतिपद्यते । - आदिपुराणम् १.६२
३. परे तुष्यन्तु वा मा वा कविः
- स्वार्थं प्रतीहताम् । - आदिपुराणम् ७६
४. पीयूषनिष्यन्दिषु येषु हर्षः
- केषां न धत्ते सुरसार्थ लीला । - ध० श० १.९
५. विचित्रालंकृती कर्तुं
- दौर्गत्यं किं कवेः कृतीः । - आदिपुराणम् ४३.४२