जैनदर्शनसूक्तयः (कामः)
<poem> १. कर्मणा कलितः कामी कुरुते
- किं न दुष्करम् । - पाण्डवपुराणम् ७.२१८
२. कामग्रहगृहीतस्य का मर्यादा
- क्रमोऽपि कः ? - हरिवंशुपुराणम्
३. को विवेको हि कामिनाम् । - पाण्डवपुराणम्८.७८
४. कामासक्तस्य नास्ति चिकीत्सितम् । - नीतिवाक्यामृतम् ३.१२
५. कामो हि कामं भ्रममातनोति । - पार्श्वनाथचरितम् पा० च० २.२२
६. ज्येष्ठो व्याधिसहस्त्राणां मदनो मतिसूदनः । - पाण्डवपुराणम् १२.३३
७. दिवा तपति तिग्मांशुर्मदनस्तु
- दिवानिशम् । - पद्मपुराणम् १०६.१०१
८. न श्रृणोति स्मरग्रस्तो
- न जिघ्रति न पश्यति । - पद्मपुराणम् ३९.२०८
९. मारसेवा न तृप्तये । - पाण्डवपुराणम् ८.९८
१०. स्त्रीचित्तहरणोद्युक्ताः
- किं न कुर्वन्ति मानवाः ? - पद्मपुराणम् ४१.६२