जैनदर्शनसूक्तयः (कार्यसिद्धिः)
<poem>
१. कार्यसिद्धिरिहाभीष्टा
- सर्वथा नयशालिभिः । - पद्मपुराणम् ५३..८५
२. क्रियासिद्धिः सत्त्वे
- वसति महतां नोपकरणे । - मदनपराजयः १.१५
३. नाजितेन्द्रियाणां काऽपि कार्यसिद्धिः । - नीतिवाक्यामृतम् ३.७
४. पातालस्थं जलं
- यन्त्रात्करस्थं क्रियते यतः । - उपासकाध्ययनम् ८१
५. प्रीत्यैव शोभना सिद्धिर्युद्धतस्तु जनक्षयः । - पद्मपुराणम् ६६.२४
६. महता परिश्रमेण विना
- महत्कार्यं न सम्पन्नं संजायते । - व० च० स्त० ६,पृ.१३७
७. भवत्यर्थस्य संसिद्ध्यै
- केवलं न च पौरुषम् । - पद्मपुराणम् १२.१६६
८. सुनिश्चितानामपि सन्नराणां
- विना प्रधानेन न कार्ययोगः । - पद्मपुराणम् ५८.४८