जैनदर्शनसूक्तयः (कालः)

<poem> १. कालोचितापेक्षेति । - ध० बि० १.५४

२. कृतार्थस्य कालक्षेपो हि निष्फलः । - हरिवंशपुराणम् ५२.८४

३. तमः पतनकाले हि प्रभवत्यपि भास्वतः । - हरिवंशपुराणम् १४.४०

४. मूर्धोपकण्ठदत्ताऽपिमृत्युः कालमुदीक्षते । - पद्मपुराणम् १११.१४

५. यान्ति कालानुभावेन

मृदवोऽपि कठोरताम् । - हरिवंशपुराणम् १.२८