जैनदर्शनसूक्तयः (गुणः)

<poem> १. ऋते तमांसि द्युमणिर्मणिर्वा

विना न काचैः स्वगुणं व्यनक्ति । - ध० श० १.२२

२. काचो हि याति वैगुण्यं

गुण्यतां हारगो मणिः । - क्षत्रचूडामणिः ११.२

३. गुणैरेव प्रीतिः सर्वत्र धीमताम् । - उत्तरपुराणम् ६७.३१८

४. गुण्यते पृथक्क्रियते द्रव्यं

द्रव्याद्यैस्ते गुणाः । - आलापद्धतिः ९३

५. दोषान्गुणान् गुणीगृह्णन्

गुणान् दोषास्तु दोषवान् । - आदिपुराणम् ४३.२०

६. मणेरनर्घस्य कुतोऽपि लग्नं

को वा न पङ्कं परिमार्ष्टि तोयैः । - ध० श० ४.७५