जैनदर्शनसूक्तयः (चारित्र्यम्)

<poem> १. चारित्र्यं खलु धर्मः । - दयोदयचम्पूः ८९.१०९

२. चारित्र्यचलिता जीवो जीवन्नपि मृतोपमः । - सुभाषितरत्नावली ३९

३. चारित्र्यं दर्शनज्ञानविकलं नार्थकृन्मतम् । - आदिपुराणम् २४.१२२

४. प्रभोश्चरित्रं खलु पापहारि

प्रगीयमानं सुकृतं ददाति । - वर्धमानचम्पूः १.१६

५. मृतश्चारित्र्यसंयुक्तः इहामुत्र च जीवति । - सुभाषितरत्नावली ३९