जैनदर्शनसूक्तयः (जीवः)
<poem> १. एक एव भवभृत्प्रजायते
- मृत्युमेति पुनरेक एव तु । - हरिवंशपुराणम् ६३.९२
२. एकाकिनैव कर्तव्यं संसारे परिवर्तनम् । - पद्मपुराणम् ५.२३१
३. एकाकी जायते प्राणी
- ह्योको याति यमान्तिकम् । - वीरवर्धमानचरितम् ११.३५
४. नरकेषूपजायन्ते पापभारगुरुकृताः । - पद्मपुराणम् १०५.११७
५. पक्षी वृक्षमिव त्यक्त्वा
- देहं जन्तुर्गमिष्यति । - प० पु ३१.२३९
६. परिणामानां स्वेषां स भवति ।
- कर्ता च भोक्ता च । - पुरुषार्थसिद्ध्युपायः १०.४४
७. भवति तदा कृतकृत्यः
- सम्यक् पुरुषार्थसिद्धिमापन्नः । - पुरुषार्थसिद्ध्युपायः ११.५०
८. भवे चतुर्गतौ भ्राम्यन्
- जीवो दुःखैश्चितः सदा । - पद्मपुराणम् १७.१७५
९. याति जीवोऽयमेकः । - पद्मपुराणम् ३१.१४५
१०. स्वकृतसम्प्राप्तिप्रवणाः सर्वदेहिनः । - पद्मपुराणम् ७७.६९