जैनदर्शनसूक्तयः (जीवनम्)
<poem> १. आशया जीवति नरो
- न ग्रन्थावपि बद्धया । - धवला १.७८
२. जीवितं मरणं दुःखनीरसम् । - दयोदयचम्पूः २१
३. विषवल्लीनिभा भोगसम्पदो भङ्गिजीवितम् । - आदिपुराणम् १७.१५
४. वेत्ति स्वार्थं न
- यस्तस्य जीवितं पशुनासमम् । - पद्मपुराणम् ५३.१०३
५. शीलस्य पालनं कुर्वन्
- यो जीवति स जीवति । - पद्मपुराणम् ४६.९५