जैनदर्शनसूक्तयः (ज्ञानम्)

<poem> १. अज्ञानेन कृतं पापं यत्तज्ज्ञानेन मुच्यते । - वीरवर्धमानचरितम् १०.९३

२. अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । - योगदृष्टिसमुच्चयः १५७

३. गौरः स्थूलः कृशो वाऽहमित्यङ्गेना-

विशेषयन् आत्मानं धारयेन्नित्यं
केवलं ज्ञप्ति विगृहम् । - समाधितन्त्रम् ७०

४. ज्ञानं हि तपसो मूलं यद्वन्मूलं महातरोः । - आदिपुराणम् ३६.१४८.२१३

५. ज्ञानं हि दुःखाब्धितरणे तरणीयते । - जीवन्धरचम्पूः १.७७

६. ज्ञानसंस्कारैः स्वतस्तत्त्वेऽवतिष्ठते । - स० श० ३७

७. ज्ञानेन ज्ञायते विश्वं धर्मपापं हिताहितम् । - वीरवर्धमानचरितम् १८.१५

८. प्राप्य चिन्तामणिं काचे ।

को रतिं कुरुते पुमान् । - पाण्डवपुराणम् २५.११६

९. भाव-प्रमेयाऽपेक्षायां प्रमाणाभास निह्नवः । - आप्तमीमांसा ८३