जैनदर्शनसूक्तयः (तृष्णा)

१. जिनस्मरणपानीयं पीतं तृष्णां मूलतोऽस्यति । - दयोदयचम्पूः ५४

२. तृष्णार्चिषा च संतप्तः कथं नाम सुखी जनः । - आदिपुराणम् ११.१६७

३. प्रतिदिनमितरस्य पुनः सह जरया वर्धते तृष्णा । - पद्मनन्दिपञ्चविंशतिः १.१७१