जैनदर्शनसूक्तयः (धर्मः)

<Poem> १. ऋते धर्मात्कुतः स्वर्गः । - आदिपुराणम् ९.१८८ २. क्रोधलोभसुगर्वाणां त्यागो हि वृष उच्यते । - पांडवपुराणम् १८.१९० ३. तस्मात्सुखार्थिनां सेव्यो धर्मकल्पतरुश्चिरम् । - आदिपुराणम् ९.१८८ ४. तस्माद्धर्मे मतिं धत्स्व स्वर्मोक्षसुखदायिनि । - आदिपुराणम् १०.१०९ ५. दयामूलो भवेद्धर्मो दया प्राण्यनुकम्पनम् । - आदिपुराणम् ५.२१ ६. दुर्लभो धर्मो जिनेन्द्रवदनोगतः । - पद्मपुराणम् ४९.१०६ ७. धर्म एको महाबन्धुः सारः सर्वशरीरिणाम् । - पद्मपुराणम् ७८.२४ ८. धर्म एव परमं मित्रम् । - उत्तरपुराणम् ५९.२७० ९. धर्म एवाद्य आख्यातस्तं विनाऽन्येन जातुचित् । - सु० उ० म० ४०.४ १०. धर्मः कल्पतरुः स्थेयान् धर्मो हि निधिरक्षयः । - आदिपुराणम् २.३४ ११. धर्मः कल्पद्रुमश्चिन्तारत्नं धर्मो निधानकम् । - वीरवर्धमानचरितम् ११.१३० १२. धर्मः कामदुधा धेनुर्धर्मश्चिन्तामणिर्महान् । - आदिपुराणम् २.३४ १३. धर्मः प्रपाति दुःखेभ्यो । - आदिपुराणम् १०.१० १४. धर्मः प्राणिदया सत्यं शान्तिः शौचं वितृष्णता । - आदिपुराणाम् १०.१५ १५. धर्ममहिंसारूपम् । - पुरुषार्थसिद्धयुपायः ७५० १६. धर्मः शर्म तनोत्ययम् । - आदिपुराणम् १०.१०७ १७. धर्मसमो बन्धुर्नान्यो लोकत्रये क्वचित् । - वीरवर्धमानचरितम् ६.१५४ १८. धर्मस्यैव विजृम्भितेन भुवने मान्यो जनो जायते । - पांडवपुराणम् २.२४९ १९. धर्माग्रं ननु केनापि नादर्शि विरसं क्वचित् । - आदिपुराणम् ४३.१६ २०. धर्मात्तीर्थकरत्त्वं च परमानन्त्यमेव च । - आदिपुराणम् १०.१०८ २१. धर्मात्त्रिवर्गनिष्पत्तिस्त्रिषु लोकेषु भाषिता । - हरिवंशुपुराणम् १८.३५ २२. धर्मादिष्टार्थसम्पत्तिस्ततः कामसुखोदयः । - आदिपुराणम् ५.१५ २३. धर्मादेव सुरेन्द्रत्वं नरेन्द्रत्त्वं गणेन्द्रता । - आदिपुराणम् १०.१०८ २४. धर्मो जीवदया धर्मः सत्यवाक् संयमस्थितिः । - पांडवपुराणम् ३.२४० २५. धर्मे हि चिन्तिते सर्वे चिन्त्यं स्यादनु चिन्तितम् । - दयोदयचम्पूः १६.९४ २६. धर्मो जगति सर्वेभ्यः पदार्थेभ्यः इहोत्तमः । - हरिवंशुपुराणम् १८३८ २७. धर्मो बन्धुश्च मित्रं च धर्मोऽयं गुरुरङ्गिनाम् । - आदिपुराणम् १०.१०९ २८. धर्मो रक्षति रक्षितो ननु हतोहन्ति ध्रुवं देहिनाम् । - पदिम्न्न्दपंचविंशतिः १.१८२ २९. धर्मो विपन्नाशनमातनोति । - जीवन्धरचम्पूः १.५४ ३०. धर्मो हि मूलं सर्वासां धनर्द्धिसुखसंपदाम् । - आदिपुराणम् २.३३ ३१. न तत्समोऽरिः क्षिपते भवाब्धौ यो धर्मविघ्नादिकृतेश्च जीवम् । - अध्यात्मकल्पद्रुमः १२.१० ३२. न धर्मो धार्मिकैर्बिना । - रत्नकरण्डाश्रावकाचारः १.२६ ३३. नैव किञ्चिदसाध्यत्वं धर्मस्य प्रतिपद्यते । - पद्मपुराणम् १४.१२५ ३४. पापकूपे निमग्नेभ्यो धर्मो हस्तावलम्बनम् । - हरिवंशुपुराणम् २१.२५५ ३५. बिना धर्मान्न सम्पदः । - आदिपुराणम् ५.१८ ३६. यतोऽभ्युदयनिश्रेयसंसिद्धिः सः धर्मः । - नीतिवाक्यामृतम् १.२ ३७. वृषाद् वारीयते वह्निर्जलधिः स्थलतिध्रुवम् । - पांडवपुराणम् १२.१७१ ३८. शोको न क्रियते बुधैः परमहो धर्मस्ततस्तज्जयः । - पदिम्न्न्दपंचविंशतिः १.१७७ ३९. स च संप्रीतये पुंसां धर्मात्सैषा परम्परा । - आदिपुराणम् ५.१५ ४०. सहगामि सुधर्मान्न पाथेयं परजन्मनि । - वर्धमानचम्पूः १८.९ ४१. सारस्त्रिभुवने धर्मः सर्वेन्द्रियसुखप्रदः । - पद्मपुराणम् १४.१५५ ४२. सुखदुःखमिदं सर्वं धर्म एकः सुखावहः । - पद्मपुराणम् ३९.३७