तं होवाच नैतत् अब्राह्मणो...

तं होवाच नैतत् अब्राह्मणो विवक्तुम् अर्हति, समिधम् सोम्य आहर,
उप त्वा नेष्ये , न सत्यादगाः । - छान्दोग्योपनिषत् ४-४-५

तं सत्यकामजाबालं प्रति हारिद्रुमतगौतमो नाम आचार्यः एवम् उवाच 'अब्राह्मणः नैवं वदेत्,
अतः सोम्य, समिधम् आहर, अहमेव ते उपनयनसंस्कारं करोमि । यतः त्वं सत्यात् न अगाः ।'

ब्राह्मणो हि स्वप्नेऽपि न अनृतं वदेत् । ब्राह्मणः सदा सत्यमेव वदति । सत्यवदनो हि ब्राह्मणो
भवितुम् अर्हति । ब्राह्मणस्य लक्षणं ह्येतत् । न हि सत्यनिष्ठायाः परं तपः अस्ति । सत्यनिष्ठया आत्मज्ञानं प्राप्यते ॥

हारिद्रुमतगौतमस्य आचार्यस्य सत्यकामजाबालसत्यव्रतत्वं वीक्ष्य अतीव आनन्दः सञ्जातः ।
अविज्ञातगोत्रस्यापि शिष्यस्य स्वयमेव आचार्यः जनकस्थाने स्थित्वा उपनयनसंस्कारं कर्तुम् उद्यतः ।
अत्र मुख्यं कारणं तु बालकस्य सत्यव्रतत्वम्, न कदापि अयम् अनृतम् अवदत् इति ।
सत्यनिष्ठे साधके गुर्वनुग्रहः वर्तते इत्यत्र संशयः अस्ति वा ? नैव । अहो, सत्यव्रतस्य महिमा !